-
।। शान्तिपाठ ।।
❖
ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवाᳬंसस्तनूभिर्व्यशेम देवहितं यदायुः।।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु।।
ॐ शान्तिः! शान्तिः!! शान्तिः!!!
➤
ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्ये-माक्ष-भिर्य-जत्राः।
स्थिरै-रङ्गैस्-तुष्टुवाᳬं-सस्तनू-भिर्व्य-शेम देव-हितं यदायुः।।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्-दधातु।।
ॐ शान्तिः! शान्तिः!! शान्तिः!!!
-
❖ॐ नमस्ते गणपतये।
त्वमेव प्रत्यक्षं तत्त्वमसि।
त्वमेव केवलं कर्तासि।
त्वमेव केवलं धर्तासि।
त्वमेव केवलं हर्ताऽसि।
त्वमेव सर्वं खल्विदं ब्रह्मासि।
त्वं साक्षादात्मासि नित्यम्।।१।।
➤ॐ नमस्ते गणपतये।
त्वमेव प्रत्यक्षं तत्त्व-मसि।
त्वमेव केवलं कर्तासि।
त्वमेव केवलं धर्तासि।
त्वमेव केवलं हर्ताऽसि।
त्वमेव सर्वं खल्विदं ब्रह्मासि।
त्वं साक्षा-दात्मासि नित्यम्।।१।।
-
❖ऋतं वच्मि। सत्यं वच्मि।।२।।
➤ऋतं वच्मि। सत्यं वच्मि।।२।।
-
❖अव त्वं माम्।
अव वक्तारम्।
अव श्रोतारम्।
अव दातारम्।
अव धातारम्।
अव अनूचानम्।
अव शिष्यम्।
अव पश्चात्तात्।
अव पुरस्तात्।
अवोत्तरात्तात्।
अव दक्षिणात्तात्।
अव चोर्ध्वात्तात्।
अवाधस्तात्।
सर्वतो मां पाहि पाहि समन्तात्।।३।।
➤अव त्वं माम्।
अव वक्तारम्।
अव श्रोतारम्।
अव दातारम्।
अव धातारम्।
अव अनूचानम्।
अव शिष्यम्।
अव पश्चात्-तात्।
अव पुरस्तात्।
अवोत्-तरात्-तात्।
अव दक्षिणात्-तात्।
अव चोर्ध्वात्-तात् ।
अवाधस्-तात्।
सर्वतो मां पाहि पाहि समन्तात्।।३।।
-
❖त्वं वाङ्मयस्त्वं चिन्मयः।
त्वमानन्दमयस्त्वं ब्रह्ममयः।
त्वं सच्चिदानन्दाद्वितीयोऽसि।
त्वं प्रत्यक्षं ब्रह्मासि।
त्वं ज्ञानमयो विज्ञानमयोऽसि।।४।।
➤त्वं वाङ्मय-स्त्वं चिन्मयः।
त्वमानन्द-मयस्त्वं ब्रह्म-मयः।
त्वं सच्चिदा-नन्दा-द्वितीयोऽसि।
त्वं प्रत्यक्षं ब्रह्मासि।
त्वं ज्ञान-मयो विज्ञान-मयोऽसि।।४।।
-
❖सर्वं जगदिदं त्वत्तो जायते।
सर्वं जगदिदं त्वत्तस्तिष्ठति।
सर्वं जगदिदं त्वयि लयमेष्यति।
सर्वं जगदिदं त्वयि प्रत्येति।
त्वं भूमिरापोऽनलोऽनिलो नभः।
त्वं चत्वारि वाक्पदानि।।५।।
➤सर्वं जगदिदं त्वत्तो जायते।
सर्वं जगदिदं त्वत्तस्-तिष्ठति।
सर्वं जगदिदं त्वयि लय-मेष्यति।
सर्वं जगदिदं त्वयि प्रत्येति।
त्वं भूमि-रापोऽ-नलोऽ-निलो नभः।
त्वं चत्वारि वाक्-पदानि।।५।।
-
❖त्वं गुणत्रयातीतः।
त्वं कालत्रयातीतः।
त्वं देहत्रयातीतः।
त्वं मूलाधारस्थितोऽसि नित्यम्।
त्वं शक्तित्रयात्मकः।
त्वां योगिनो ध्यायन्ति नित्यम्।
त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवः स्वरोम्।।६।।
➤त्वं गुण-त्रयातीतः।
त्वं काल-त्रयातीतः।
त्वं देह-त्रयातीतः।
त्वं मूलाधार-स्थितोऽसि नित्यम्।
त्वं शक्ति-त्रयात्मकः।
त्वां योगिनो ध्यायन्ति नित्यम्।
त्वं ब्रह्मा त्वं विष्णुस्-त्वं रुद्रस्-त्वमिन्द्रस्-त्वमग्निस्-त्वं वायुस्-त्वं सूर्यस्-त्वं चन्द्रमास्-त्वं ब्रह्म भूर्भुवः स्वरोम्।।६।।
-
❖गणादिं पूर्वमुच्चार्य वर्णादिं तदनन्तरम्।
अनुस्वारः परतरः।
अर्धेन्दुलसितम्।
तारेण रुद्धम्।
एतत्तव मनुस्वरूपम्।
गकारः पूर्वरूपम्।
अकारो मध्यमरूपम्।
अनुस्वारश्चान्त्यरूपम्।
बिन्दुरुत्तररूपम्।
नादः सन्धानम्।
संहिता सन्धिः।
सैषा गणेशविद्या।
गणक ऋषिः निचृद् गायत्री छन्दः।
गणपतिर्देवता।
ॐ गं गणपतये नमः।।७।।
➤गणादिं पूर्व-मुच्चार्य वर्णादिं तद-नन्तरम्।
अनुस्वारः परतरः।
अर्धेन्दु-लसितम्।
तारेण रुद्धम्।
एतत्-तव मनु-स्वरूपम्।
गकारः पूर्व-रूपम्।
अकारो मध्यम-रूपम्।
अनुस्वारश्-चान्त्य-रूपम्।
बिन्दु-रुत्तर-रूपम्।
नादः सन्धानम्।
संहिता सन्धिः।
सैषा गणेश-विद्या।
गणक ऋषिः निचृद् गायत्री छन्दः।
गणपतिर्-देवता।
ॐ गं गणपतये नमः।।७।।
-
❖एकदन्ताय विद्महे वक्रतुण्डाय धीमहि।
तन्नो दन्ती प्रचोदयात्।।८।।
➤एक-दन्ताय विद्महे वक्र-तुण्डाय धीमहि।
तन्नो दन्ती प्रचोदयात्।।८।।
-
❖एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम्।
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम्।।
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम्।
रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम्।।
भक्तानुकम्पिनं देवं जगत्कारणमच्युतम्।
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम्।।
एवं ध्यायति यो नित्यं स योगी योगिनां वरः।।९।।
➤एकदन्तं चतुर्हस्तं पाश-मङ्कुश-धारिणम्।
रदं च वरदं हस्तैर्-बिभ्राणं मूषक-ध्वजम्।।
रक्तं लम्बोदरं शूर्प-कर्णकं रक्त-वाससम्।
रक्त-गन्धानु-लिप्ताङ्गं रक्त-पुष्पैः सुपूजितम्।।
भक्तानु-कम्पिनं देवं जगत्कारण-मच्युतम्।
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्-परम्।।
एवं ध्यायति यो नित्यं स योगी योगिनां वरः।।९।।
-
❖नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्ननाशिने शिवसुताय श्रीवरदमूर्तये नमः।।१०।।
➤नमो व्रात-पतये नमो गण-पतये नमः प्रमथ-पतये नमस्तेऽस्तु लम्बोदरा-यैक-दन्ताय विघ्न-नाशिने शिव-सुताय श्री-वरद-मूर्तये नमः।।१०।।
-
❖एतदथर्वशीर्षं योऽधीते।
स ब्रह्मभूयाय कल्पते।
स सर्वविघ्नैर्न बाध्यते।
स सर्वतः सुखमेधते स पञ्चमहापापात्प्रमुच्यते।
सायमधीयानो दिवसकृतं पापं नाशयति।
प्रातरधीयानो रात्रिकृतं पापं नाशयति।
सायं प्रातः प्रयुञ्जानो अपापो भवति।
सर्वत्राधीयानोऽपविघ्नो भवति धर्मार्थकाममोक्षं च विन्दति।
इदम् अथर्वशीर्षमशिष्याय न देयम्।
यो यदि मोहाद्दास्यति स पापीयान् भवति।
सहस्रावर्तनाद् यं यं काममधीते तं तमनेन साधयेत्।।११।।
➤एतद-थर्व-शीर्षं योऽधीते।
स ब्रह्म-भूयाय कल्पते।
स सर्व-विघ्नैर्न बाध्यते।
स सर्वतः सुख-मेधते स पञ्च-महापापात्-प्रमुच्यते।
सायम-धीयानो दिवस-कृतं पापं नाशयति।
प्रातर-धीयानो रात्रि-कृतं पापं नाशयति।
सायं प्रातः प्रयुञ्जानो अपापो भवति।
सर्वत्रा-धीयानोऽप-विघ्नो भवति धर्मार्थ-काम-मोक्षं च विन्दति।
इदम् अथर्वशीर्ष-मशिष्याय न देयम्।
यो यदि मोहाद्-दास्यति स पापीयान् भवति।
सहस्रा-वर्तनाद् यं यं कामम-धीते तं तमनेन साधयेत्।।११।।
-
❖अनेन गणपतिमभिषिञ्चति स वाग्मी भवति।
चतुर्थ्यामनश्नञ्जपति स विद्यावान् भवति।
इत्यथर्वणवाक्यं।
ब्रह्माद्यावरणं विद्यात्।
न बिभेति कदाचनेति।।१२।।
➤अनेन गणपतिम-भिषिञ्चति स वाग्मी भवति।
चतुर्थ्या-मनश्-नञ्जपति स विद्यावान् भवति।
इत्यथर्वण-वाक्यं।
ब्रह्मा-द्यावरणं विद्यात्।
न बिभेति कदाचनेति।।१२।।
-
❖यो दूर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति।
यो लाजैर्यजति स यशोवान् भवति।
स मेधावान् भवति।
यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति।
यः साज्यसमिद्भिर्यजति स सर्वं लभते स सर्वं लभते।।१३।।
➤यो दूर्वाङ्कुरैर्-यजति स वैश्रवणो-पमो भवति।
यो लाजैर्-यजति स यशोवान् भवति।
स मेधावान् भवति।
यो मोदक-सहस्रेण यजति स वाञ्छित-फलम-वाप्नोति।
यः साज्य-समिद्-भिर्यजति स सर्वं लभते स सर्वं लभते।।१३।
-
❖अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति।
सूर्यग्रहे महानद्यां प्रतिमासन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति।
महाविघ्नात् प्रमुच्यते।
महापापात् प्रमुच्यते।
महादोषात प्रमुच्यते।
स सर्वविद् भवति।
स सर्वविद् भवति।
य एवं वेद।।१४।।
➤अष्टौ ब्राह्मणान् सम्यग्-ग्राहयित्वा सूर्य-वर्चस्वी भवति।
सूर्य-ग्रहे महा-नद्यां प्रतिमा-सन्निधौ वा जप्त्वा सिद्ध-मन्त्रो भवति।
महा-विघ्नात् प्रमुच्यते।
महा-पापात् प्रमुच्यते।
महा-दोषात् प्रमुच्यते।
स सर्वविद् भवति।
स सर्वविद् भवति।
य एवं वेद।।१४।।
-
❖।।इत्युपनिषत्।।
➤।।इत्युपनिषत्।।
-
शान्तिपाठ
❖ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवाᳬंसस्तनूभिर्व्यशेम देवहितं यदायुः।।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु।।
ॐ शान्तिः! शान्तिः!! शान्तिः!!!
➤ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्ये-माक्ष-भिर्य-जत्राः।
स्थिरै-रङ्गैस्-तुष्टुवाᳬं-सस्तनू-भिर्व्य-शेम देव-हितं यदायुः।।
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्-दधातु।।
ॐ शान्तिः! शान्तिः!! शान्तिः!!!